Friday, May 7, 2010

श्री गणाधिपति पञ्चरत्न स्तोत्रम्

श्री गणाधिपति पञ्चरत्न स्तोत्रम्

ॐ सरागिलोकदुर्लभं विरागिलोकपूजितं

सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम्

गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चकाः

नमामि तं गणाधिपं कृपापयः पयोनिधिम् १

गिरीन्द्रजामुखाम्बुज प्रमोददान भास्करं

करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् .

सरीसृपेश बद्धकुक्षिमाश्रयामि सन्ततं

शरीरकान्ति निर्जिताब्जबन्धुबालसन्ततिम् २
शुकादिमौनिवन्दितं गकारवाच्यमक्षरं

प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये .

चकासतं चतुर्भुजैः विकासिपद्मपूजितं

प्रकाशितात्मतत्वकं नमाम्यहं गणाधिपम् ३

नराधिपत्वदायकं स्वरादिलोकनायकं

ज्वरादिरोगवारकं निराकृतासुरव्रजम्

कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैः

हृदासदाविभावितं मुदा नमामि विघ्नपम् ४

श्रमापनोदनक्षमं समाहितान्तरात्मनां

सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम्

रमाधवादिपूजितं यमान्तकात्मसम्भवं

शमादिषड्गुणप्रदं नमामि तं विभूतये ५

गणाधिपस्य पञ्चकं नृणामभीष्टदायकं

प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः

भवन्ति ते विदां पुरः प्रगीतवैभवाजवात्

चिरायुषोऽधिकः श्रियस्सुसूनवो न संशयः


इति दक्षिणाम्नाय श्रिङ्गेरी श्रीशारदापीठाधिपति
शङ्कराचार्य जगद्गुरुवर्यो श्री सच्चिदानन्द

शिवाभिनव नृसिंहभारती महास्वामिभिः विरचितम्

श्री गणाधिपति पञ्चरत्न स्तोत्रम् सम्पूर्णम्

.....................................................................................

No comments:

Post a Comment